||Sundarakanda ||

|| Sarga 32||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ द्वात्रिंशस्सर्गः

ततश्शाखांतरे लीनं दृष्ट्वा चलितमानसा।
वेष्टितार्जुन वस्त्रं तं विद्युत्संघात पिंगळम्॥1||

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनं।
फुल्लशोत्कराभासं तप्तचामीकरेक्षणम्॥2||

मैथिली चिंतयामास विस्मयं परमं गता।
अहो भीम मिदं रूपं वानरस्य दुरासदम्॥3||

दुर्निरीक्ष मिति ज्ञात्वा पुनरेव मुमोह सा।
विललाप भृशं सीता करुणं भयमोहिता॥4||

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी।
रुरोद बहुधा सीता मंदं मंदस्वरा सती॥5||

सातं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्।
मैथिली चिंतयामास स्वप्नोऽयमिति भामिनी॥6||

सा वीक्षमाणा पृथु भुग्नवक्त्रम् शाखामृगेंद्रस्य यथोक्त कारम्।
ददर्श पिंगाधिपते रमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्॥7||

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेन बभूव सीता।
चिरेण संज्ञां प्रतिलभ्य भूयो विचिंतयामास विशालनेत्रा॥8||

स्वप्ने मयाऽयं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः।
स्वस्त्यस्तु रामाय स लक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः॥ 9||

स्वप्नोऽपि नायं नहि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः।
सुखं हि मे नास्ति यतोऽस्मि हीना तेनेंदुपूर्ण प्रतिमाननेन।10||

रामेति रामेति सदैव बुद्ध्या
विचिंत्य वाचा ब्रुवती त मेव।
तस्यानुरूपं च कथां तमर्थं
एवं प्रपश्यामि तथा शृणोमि॥11||

अहं तस्याद्य मनोभवेन
संपीडिता तद्गत सर्वभावा।
विचिंतयंती सततं तमेव
तथैव पश्यामि तथा शृणोमि॥12||

मनोरथ स्स्यादिति चिंतयामि
तथापि बुद्ध्या च वितर्कयामि।
किं कारणं तस्य हि नास्ति रूपम्
सुव्यक्त रूपश्च वद त्ययं माम्॥13||

नमोsस्तु वाचस्पतये सवज्रिणे
स्वयंभुवे चैव हुताशनायच।
अनेन चोक्तं यदिदं ममाग्रतो
वनौकसा तच्च तथास्तु नान्यथा॥14||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वात्रिंशस्सर्गः॥

||ओं तत् सत्॥
||om tat sat||